Experiences · Miracles

Head of (All) Household

How far would you go for your loved one?

It was the day of one of the Gurupurnima programs in Mumbai in 1989. In those days, two Gurupurnima programs in different suburbs of Mumbai, one in Dadar and later, one in Kandivali, were organized to accommodate the disciples who would come to pay their respect to H. H. Sadguru Shree Mama (“Mama”). The Dadar program would start at 4 pm at a community center. The drive from Mauli (Pune) to Dadar would easily take a good 4-4.5 hours. Thank God, we were coming down from Kandivali.

We reached the community center at 4 pm but found very few people in attendance. Mumbai is always hit with heavy rainstorms in July, and that day was no exception. The majority of the people were still on their way to the program, battling waterlogged streets and traffic.  Mama was sitting along the wall and resting against a bolster. He had a runny nose, watery eyes and a red face. As I touched Mama’s feet for his blessings, I noticed he was running a high fever. I asked Mama, “How did you even travel with your high fever, Mama?” To which he responded, “If I had not come today, people would have felt bad! That’s why I had to come.”  He always took care of his disciples’ feelings, even at the cost of his own health. 

On that day, as per Mama’s guidance, H. H.  Sadguru Shree Shireesh Dada Kawade (“Dada”) gave a discourse as part of the day’s services. That discourse, or pravachan, was about how a Sadguru, a true teacher, is compassionate, warm-hearted, sympathetic, and takes good care of the disciple (student). After the discourse, we had a light supper and waited for our turn to meet with Mama. 

Several sadhaks asked Mama where he was headed after the program, to which He politely replied, “I am heading back to Pune.” While people were busy with supper, Mama softly told Rajabhau, a sadhak who was standing next to him, “After the program, I will be going to Kandivali. Don’t tell anyone!”  

It was 9 pm by the time the program was done. We came to Kandivali in Mama’s car. After we reached home, Mama, despite His fever, made sure Mr. Nana Gogate (the driver) had a place to stay for the night. As we got out of the car, Rajabhau said, “I will arrange for a chair to be brought down so that You will be able to rest at any time on Your way up three flights of stairs.” As Rajabhau opened the door of our house, he was surprised to see Mama standing right behind him!  How Mama beat us to the door still puzzles us! 

Mama was extremely tired.  As he slept on the bed, Rajabhau made sure he was comfortable and  I kept a pillow to rest His head on. Mama quickly fell asleep. We made our sleeping arrangements such that we could tend to Mama, should He need anything during the night. The thought that I might not hear Mama call me kept me awake. 

After 3-4 hours, Mama called for Rajabhau. Immediately, both of us got up. It was 2 am and Mama was sitting up in his bed, completely covered in sweat. His clothes and bed sheets were all drenched. Mama changed into a new set of clothes while Rajabhau changed his bedsheets.  He felt a little better after cleaning up. He said to me; “Sulabha, I am very hungry.” “Mama, let me quickly freshen up and cook whatever you would like,” I said. “Don’t worry about it. Just fry some rice on ghee (clarified butter) and make it soft and mushy!” He responded. The soft rice was ready in no time.  Mama had some rice and exclaimed, “A-ha! I feel much better now.” Mama went back to sleep after a late-night snack. When He got up in the morning, He looked a little better. 

The Kandivali Gurupournima program was held the following Wednesday. Mama was still under the weather. By four o’clock in the afternoon, people gathered to meet Mama and seek His blessings. I informed everyone of his health and let them know that He might not be able to give a discourse. “Just stay for a while and seek His blessings,” I said to everyone.  My son and daughter-in-law made some food arrangements. After everyone was done, Mama said to me, “Go get Jnaneshwari (a critique of the ancient classic ‘Bhagwat Geeta’). I have to give a discourse!” The entire audience was overjoyed. The next 2-3 hours were spent mesmerized in pure happiness. Everyone returned home content and satisfied. Mama returned to his bed with a fever. 

No sacrifice was too great for Mama when it came to his loved ones, his family of sadhaks – all of us! 

Originally published in book SmrutiManjusha edition 1 in 2014 by Shree Vamanraj Prakashan (SVP #220) authored by / compiled by Smt. Sulabha (Mai) Sathe and Shree. Vasant Mahadeo Patankar. Refer to story number 1 authored by Smt. Mai Sathe on page number 17.


(Sanskrit version)

सर्वकुटुम्बानां प्रमुखः

निजस्य प्रियजनस्य कृते भवन्तः कियत् पर्यन्तं गच्छेयुः?

१९८९ ख्रिस्ताब्दे गुरुपौर्णिमाकार्यक्रमदिवसः आसीत् | तदानीं सद्गुरुश्रीमामामहाराजाणां दर्शनार्थम् आगन्तुकान् शिष्यान् समावेशयितुं मुम्बई-उपनगरे गुरुपौर्णिमायाः द्वौ कार्यक्रमौ आयोजितौ भवतः स्म, एकः दादरमध्ये अपरश्च कान्दिवलीमध्ये | दादरकार्यक्रमः सायङ्काले चतुर्वादनसमये आरभते स्म | माऊली-आश्रमात् (पुण्यपत्तनम्) दादरपर्यन्तं वाहनचालनं चतुःपञ्चहोरात्मकं तु भवति स्म एव | ईश्वरकृपया अस्माकं प्रवासः कान्दिवलीतः एव आसीत् |

चतुर्वादनसमये वयं केन्द्रस्थाने प्राप्ताः तदा उपस्थितानां संख्या अत्यन्तम् अल्पा आसीत् | प्रतिवर्षमेव मुम्बईनगरी जुलैमासे प्रचण्डजलपातेन आहता भवति | सः दिवसः अपि त‍थैव आसीत् | अधिकतमा जनाः तदानीमपि कार्यक्रमम् आगन्तुं जलपूर्णमार्गान् वाहनकोलाहलान् च कथञ्चित् प्रतिकुर्वन्तः आसन् | मामामहाभागाः उपधानमाश्रित्य भित्तितटे उपविष्टाः आसन् | तेषां नासिका श्लेष्ममयी, नेत्रे जलमये मुखं च रक्तमासीत् | यथा मया कृपाशीर्वादार्थं तेषां चरणे स्पृष्टे त‍था मया अवगतं यत् तेषां शरीरे महान् ज्वरः आसीत् | मया उक्तम्, “मामा, एतेन ज्वरेण सह भवता प्रवासोऽपि कथं कृतः?” तैः उत्तरं दत्तम्, “यदि अहम् अद्य न आगमिष्यं तर्हि जनाः दुःखिताः अभविष्यन् ! अतः मया आगन्तव्यम् आसीत् |” स्वम् आरोग्यमपि अविगणय्य ते सदा निजशिष्याणां भावनाः रक्षन्ति स्म |

तस्मिन् दिवसे मामामहाभागानाम् आदेशानुसारेण सद्गुरुश्रीशिरीषदादामहोदयाः प्रवचनसेवां कृतवन्तः| तस्मिन् प्रवचने तैः कथितं यत् कथं सद्गुरुः करुणामूर्तिः सहृदयः स्नेहार्द्रः भवति त‍था शिष्यस्य कथं सततं रक्षां करोति इति | प्रवचनान‍न्तरं अल्पोपाहारः अभवत् | तदन‍न्तरं मामामहाभागान् मिलितुं वयं पङ्क्त्यां प्रतीक्षां कृतवन्तः|

बहवः साधकाः मामामहाभागान् कार्यक्रमान‍न्तरं ते कुत्र यास्यन्ति इति पृष्टवन्तः| मामामहाभागाः अपि आर्जवेन उक्तवन्तः, “अहं पुणेनगरं प्रतिगच्छेयम् |” यदा जनाः अल्पोपाहारे मग्नाः आसन् तदा मामामहाभागाः पार्श्वस्थितं साधकं राजाभाऊमहोदयं लघुस्वरेण अवदन्, “कार्यक्रमान‍न्तरम् अहं कान्दिवलीकेन्द्रं गमिष्यामि | इदं कमपि मा कथय !” नववादनपर्यन्तं कार्यक्रमः समाप्तः|
वयं मामामहाभागानां वाहनेन कान्दिवलीं प्राप्तवन्तः| अस्माकं गृहागमनानन्तरं महाज्वरे सति अपि मामामहाभागैः वाहनचालकस्य नानागोगटेवर्यस्य निवासव्यवस्था समीक्षिता | यदा वयं वाहनात् अवतीर्णाः तदा राजाभाऊ उक्तवान्, “अहम् आसन्दिकायाः व्यवस्थां करोमि | तेन सोपानत्रयारोहणमार्गे भवान् विश्रामं कर्तुं शक्नुयात् |” यावत् राजाभाऊ अस्माकं गृहस्य द्वारम् उदघाटयत् तावत् सः मामामहाभागान् पार्श्वे एव दृष्ट्वा चकितः अभवत् ! कथं मामामहाभागाः अस्मत्पूर्वं त‍त्र प्राप्ताः इति एत‍त् सम्प्रति अपि अस्मान् प्रहेलयति |

मामामहाभागाः अत्यन्तं म्लानाः आसन् | यदा ते शयने सुप्ताः तदा राजाभाऊमहोदयः तान् स्वस्थान् अकरोत् | मयापि तेषां कृते उपधानं स्थापितम् | मामामहाभागाः सत्वरं निद्राधीनाः अभवन् | अस्माभिः स्वशयनव्यवस्थापि मामामहाभागानां सेवायै यथा अनुकूला स्यात् त‍थैव कृता | मामामहाभागानां ध्वनिः क्वचित् मया न श्रूयेत इति चिन्तनेन अहं जागृता एव आसम् | त्रिचतुर्होरान‍न्तरं मामामहाभागाः राजाभाऊवर्यम् आह्वयन् | शीघ्रम् एव आवाम् उभौ अपि उत्थितौ | द्विवादनसमयः आसीत् | मामामहाभागाः सर्वथा स्वेदेन पूर्णाः शयने आसीनाः आसन् | तेषां वस्त्राणि त‍था शयनास्तरणं सर्वं क्लिन्नम् आसीत् | मामामहाभागाः नवानि वस्त्राणि अधारयन् | राजाभाऊवर्यः नवं शयनास्तरणं विहितवान् | स्वच्छतान‍न्तरं ते स्वस्थतामनुभूतवन्तः| ते माम् अवदन्, “सुलभे अहं क्षुधितः|” मया उक्तम्, “मामा, अहं सत्वरं स्नानादि कृत्वा यद् भवते रोचते त‍त् करिष्यामि |” ते अवदन्, “चिन्ता मास्तु | केवलं कांश्चित् व्रीहीन् घृतेन सह पच तान् मृदून् आर्द्रान् च कुरु !” शीघ्रमेव मृदु ओदनं सिद्धम् आसीत् | मामामहाभागाः किञ्चित् भुक्त्वा उदगिरन्, “अहाहा… इदानीम् अधिकं स्वास्थ्यम् अनुभवामि |” अतिरात्रिभोजनान‍न्तरं मामामहाभागाः पुनः सुप्ताः| यदा ते प्रातः उत्थिताः तदा स्वस्थ‍तराः अदृश्यन्त | कान्दिवलीगुरुपौर्णिमाकार्यक्रमः अनुगामिनि बुधवासरे सम्पन्नः अभवत् | मामामहाभागाः तदापि किञ्चित् अस्वस्थाः आसन् | अपराह्णे चतुर्वादनपर्यन्तं जनाः मामामहाभागान् मिलितुं आशीर्वादान् च ग्रहीतुं समागताः| अहं सर्वान् तेषाम् अस्वास्थ्यविषये ज्ञापयित्वा ते प्रवचनसेवां न कर्तुं शक्नुयुः इति असूचयम् | अहं सर्वान् उक्तवती, “किञ्चित् स्थित्वा केवलं तेषां कृपां गृह्णीत |” मम पुत्रेण स्नुषया च अन्नव्यवस्था कृता | यदा सर्वेषाम् अन्नग्रहणादि अभवत् तदा मामामहाभागाः माम् अवदन्, “गच्छ ज्ञानेश्वरीम् आनय | अहं प्रवचनं करिष्यामि |” समग्रः समुदायः प्रहर्षितः अभवत् | अग्रिमाः द्वित्राः होराः शुद्धपरमान‍न्दमयाः आसन् | सर्वे तृप्त‍तमाः भूत्वा गृहाणि अगच्छन् | मामामहाभागाः ज्वरेण सह शयनम् अगच्छन् |

यदा प्रियतमाणां साधकानाम् – अस्माकं सर्वेषां विषयः आसीत् तदा कोऽपि त्यागः मामामहाभागानां कृते अकार्यः न अभवत् |

अयं लेख: मूलत: स्मृतिमंजूषा ed.१, २०१४ श्रीवामनराज प्रकाशनेन (प्रकाशन क्रमाङ्कः २२०)  प्रकाशित: |लेखक:/सङ्कलक: – श्रीमती सुलभा (माई) साठे त‍था श्री.वसंत महादेव पाटणकर | कृपया १७ पृष्ठे श्रीमती माई साठे-लिखिता कथा – क्रमाङ्कः १ विलोक्यताम् |

One thought on “Head of (All) Household

Leave a Reply

Your email address will not be published. Required fields are marked *

twenty nine − = twenty seven