Miracles

He is Lord Dattatreya Himself

His Holiness Sadguru Shree Mama (“Mama”) was a saint like no other. Adept at concealing his spiritual identity, Mama lived among us as a fellow mortal, spreading knowledge, love and spiritual wisdom, leaving content souls in His wake. To understand where He came from and who He really was, is no small task for us. It takes one to know one, it is said. To know Mama, hence, requires a level of spiritual maturity that most of us can hope to achieve through His grace and through consistent practice of sadhana. There were, however, those extremely rare instances when sadhaks would get a glimpse into this incarnation of Lord Shree Dattatreya, who wandered among as just Mama.

It was a cold and rainy day in Pune, where Mauli, the residence and ashram established by Mama, is located. A simple but blessed abode, Mauli, where Mama lived, was even cooler indoors this day. The ground floor, consisting of a large, open space on one side, also had an area of worship, or devghar, separated by an iron grill. Mama, along with a few sadhaks, was standing inside the devghar, when Mr. Agharkar, a sadhak, was noticeably shivering due to the cold. “Come, let us all sit for sadhana,” Mama said.

As sadhaks sat with their eyes closed, ready to begin their sadhana, Mr. Agharkar, who was just settling in saw an image of Lord Shree Dattatreya emerge from Mama’s body and disappearing among the idols of the deities kept inside the devghar. Just as he was blessed with this divine vision, others commenced their sadhana. Completely bewildered and unable to process what Mr. Agharkar had just witnessed and seen, he, too, started his sadhana. Despite the cool temperatures indoors, Mr. Agharkar was sweating profusely during the entire hour of meditation. 

Once sadhana was complete, Mr. Agharkar bowed in reverence at the feet of Mama and narrated to Mama the vision that he had just an hour earlier. Mama listened patiently and then calmed Mr. Agharkar down, saying “It is indeed a rare privilege to see the Lord. It is His grace!” and went about the rest of His day.

Such was the modesty and humility of this great saint, known by all as Mama, understood by some as Sadguru and witnessed by even fewer as Lord Shree Dattatreya. 

Originally published in the book Smrutiprasanga, ed.1, in 2018 by Shree Vamanraj Prakashan (SVP#240) compiled and edited by Sadguru P P Shree Dada. Refer to story number 64 from category Vividha Anubhuti authored by Late Shree B.D. Agharkar on page 440.


(Sanskrit version)

ते साक्षात् भगवन्तः श्री दत्तात्रेयमहाराजा: एव !

प.पू. सद्गुरुमामामहाभागा: अस्य युगस्य अद्वितीया: सन्त: आसन् | तेषां आध्यात्मिक: अधिकार: तु अन्येभ्य: संवृत्त: एव आसीत् | अस्मासु सामान्य इव व्यवहारं कुर्वद्भिः तै: ज्ञानभक्तिविवेकवैराग्यादीनां सर्वत्र प्रसारः कृतः| मामामहाभागानां सम्पर्के आगता: जना: समाधानेन एव प्रतिगच्छन्ति स्म | वस्तुत: ते भक्तानां कृते कल्पवृक्षवत् आसन् |

ते कुत: आविर्भूता: , तेषां मूलस्वरूपं किम् इति ज्ञातुं वयं कथमपि न पारयाम:| ‘शिवो भूत्वा शिवं यजेत्’ इति तु प्रसिद्धम् एव | मामामहाभागान् ज्ञातुं यः पारमार्थिकः अधिकारः आवश्यकः तस्य प्राप्ति: तु न सरला | तेषां कृपया तथा च दीर्घकालं यावत् साधनया एव प्रायश: तत् शक्यं भवति | साक्षात् भगवन्तः श्रीदत्तात्रेयमहाराजा: अस्मासु  मामामहाभागानां रूपेण विचरन्त: आसन् | तेषां मूलदत्तस्वरूपस्य अवलोकनं बहुभाग्येन विरलतया एव कैश्चित् साधकै: प्राप्यते स्म |

इयम् कथा पुणेनगरे एकस्मिन् वर्षाऋतो: दिने घटिता |

पुणेनगरे वर्षाऋतुः अत्यन्तं शीतः भवति, तत्रापि  मामाभागानां निवासस्थाने पुण्यमये माउलीआश्रमे तु तदानीं किञ्चित् अधिकमेव शैत्यमासीत् | तत्र भूतले विशाल: कक्ष: आसीत् | तस्य पश्चिमे कोणे मन्दिरं द्विभागे  लौहजालेन विभाजितं आसीत् |

तद्दिने कैश्चन साधकै: सह मामामहाभागा: मन्दिरे तिष्ठन्त: आसन् |  तेषु एक: साधक: आघारकरवर्यः तु शैत्येन कम्पमान एव आसीत् | तदा एव मामामहाभागा: अवदन् “आगच्छत, वयं सर्वे साधनार्थं उपविशाम:|”   

यदा सर्वे साधका: नेत्रे निमील्य साधनां कर्तुं उपविष्टाः आसन् , तदा भूमौ निषीदन् एव आघारकरवर्यः किमपि अद्भुतं दृश्यं दृष्टवान् | स: अपश्यत् यत् श्रीदत्तात्रेयमहाराजानां दिव्यस्वरूपं मामामहाभागानां देहत: प्रकटीभूय मन्दिरे स्थितासु देवप्रतिमासु विलीनं भवति इति | एवं यावत् तस्य दर्शनानुग्रहः जातस्तावत् अन्यै: साधना आरब्धा | भगवत्कृपया प्राप्तेन साक्षात्कारेण विभ्रान्त: सन् आघारकरवर्यः अपि किंकर्तव्यमूढतया साधनाम् आरब्धवान् |  अतीव शीतले तस्मिन् वातावरणे अपि सम्पूर्णसाधनाकालपर्यन्तं आघारकरवर्यस्य समस्तं शरीरं अत्यधिकस्वेदपूर्णम् आसीत् |       

साधनाया: समाप्ते: अनन्तरं आघारकरवर्य: मामामहाभागानां चरणौ आदरेण प्रणम्य होरापूर्वं यत् अनुभूतं तत्सर्वं कथितवान् | मामामहाभागा: आघारकरवर्यस्य अनुभवं शान्ततया श्रुतवन्त:| अनन्तरं तं समाश्वास्य ते प्रेम्णा अवदन्, “दुर्लभ: अयं अनुभव: यतः भगवद्दर्शनार्थम् कश्चन विशिष्ट: अधिकार: अपेक्ष्यते | इयं तेषां महती कृपा |” इति उक्त्वा ते सहजतया स्वकार्ये मग्ना: अभवन् |

एवम्भूता खलु एतेषां महात्मनां विनयशीलता गर्वहीनता च | ये सर्वैः मामामहाभागाः इति ज्ञायन्ते कैश्चित् सद्गुरुरूपेण अवगम्यन्ते त‍था च विरलतरैः एव श्रीदत्तात्रेयस्वरूपेण साक्षात्क्रियन्ते ते इमे पूजनीयाः सद्गुरुमामामहाराजाः विजयन्तेतमाम् |       

अयं लेख: मूलत: स्मृतिप्रसंगः ed. १, २०१८ श्रीवामनराज प्रकाशनेन (प्रकाशन क्रमाङ्कः २४०)   प्रकाशित: | लेखक:/सङ्कलक: – सद्गुरु प.पू.श्री दादा | कृपया ४४० पृष्ठे कै.श्री. बा. दि. आघारकरवर्येण लिखिता  कथा क्रमाङ्कः ६४ विलोक्यताम् |


Leave a Reply

Your email address will not be published. Required fields are marked *

− 4 = one